श्री गणपति गीता प्रार्थना के बोल|| Shri ganpati geeta prayer lyrics
क्वप्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने।
विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतनः ॥ १ ॥
नासिगणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मक ।
ईशतातवानीशतानृणां केशवेरिता साशयोक्तिभिः ॥ २ ॥
गजमुखतावकमन्त्रमहिम्ना सृजति जगद्विधिरनुकल्पम् ।
भजति हरिस्तां तदवनकृत्ये यजति हरोपि विरामविधौ ॥ ३ ॥
सुखयति शतमखमुखसुरनिक रानखिलक्रतुविघ्नघ्नोयम् ।
निखिलजगज्जीवकजीवनदस्सखलु यतः पर्जन्यात्मा ॥ ४ ॥
प्रारंभ कार्याणां हेरम्बं यो ध्यायेत् ।
पारं यात्येवकृते रारादाप्नोति सुखम् ॥ ५ ॥
गौरीसूनोः पादांभोजे लीनाचेतो वृत्तिर्मे ।
घोरे संसारारण्येवा वासः कैलासेवास्तु ॥ ६ ॥
गुहगुरुपदयुगमनिशमभयदम् ।
वहसि मनसि यदि शमयसि दुरितम् ॥ ७ ॥
जय जय शङ्करवरसूनो भयहर भजतां गणराज।
IIIनयममचेतस्तवचरणं नियमम धर्मेन्तःकरणम् ॥ ८ ॥
चलसिचित्त किन्नु विषम विषयकाननेकलयवृत्ति ममतदातृकरिवरानने ।
तुलयखेदमोदयुगलमिदमशाश्वतंविलयभयमलद्ध्यमेव जन्मनि स्मृतम् ॥ ९ ॥
सोमशेखरसूनवे सिन्दूरसोदरभानवेयामिनीपतिमौलये यमिहदयविरचितकेलये ।
मूषकाधिपगामिने मुख्यात्मनोन्तर्यामिनेमङ्गलं विघ्नद्विषे मत्तेभवक्त्रज्योतिषे ॥ १० ॥
अवधीरितदाडिमसुमसौभग-मवतुगणेशज्योति-समवतु गणेशज्योतिः ।
हस्तचतुष्टयधृतवरदाभय पुस्तकबीजापूरंधृतपुस्तकबीजापूरम् ॥ ११ ॥
रजिताचलवप्रक्रीडोत्सुक गजराजास्यमुदारं,भज श्री गजराजास्यमुदारम् ।
फणिपरिकृतकटिवलयाभरणं कृणुरे जनहृदि कारणं,तव कृणुरे जनहृदिकारणम् ॥ १२ ॥
यः प्रगे गणराजमनुदिन-मप्रमेयमनुस्मरेत् ।
सप्रयाति पवित्रिताङ्गो विप्रगङ्गाद्यधिकताम् ॥ १३ ॥
सुब्रह्मण्यमनीषि विरचितात्वब्रह्मण्यमपाकुरुते ।
गणपतिगीता गानसमुचिता सम्यक्पठतां सिद्धान्तः ॥ १४ ॥
इति श्री सुब्रह्मण्ययोगि विरचिता श्री गणपति गीता ।
0 टिप्पणियाँ